वांछित मन्त्र चुनें

ते हि द्यावा॑पृथि॒वी मा॒तरा॑ म॒ही दे॒वी दे॒वाञ्जन्म॑ना य॒ज्ञिये॑ इ॒तः । उ॒भे बि॑भृत उ॒भयं॒ भरी॑मभिः पु॒रू रेतां॑सि पि॒तृभि॑श्च सिञ्चतः ॥

अंग्रेज़ी लिप्यंतरण

te hi dyāvāpṛthivī mātarā mahī devī devāñ janmanā yajñiye itaḥ | ubhe bibhṛta ubhayam bharīmabhiḥ purū retāṁsi pitṛbhiś ca siñcataḥ ||

पद पाठ

ते । हि । द्यावा॑पृथि॒वी इति॑ । मा॒तरा॑ । म॒ही । दे॒वी । दे॒वान् । जन्म॑ना । य॒ज्ञिये॒ इति॑ । इ॒तः । उ॒भे इति॑ । बि॒भृ॒तः॒ । उ॒भय॑म् । भरी॑मऽभिः । पु॒रु । रेतां॑सि । पि॒तृऽभिः॑ । च॒ । सि॒ञ्च॒तः॒ ॥ १०.६४.१४

ऋग्वेद » मण्डल:10» सूक्त:64» मन्त्र:14 | अष्टक:8» अध्याय:2» वर्ग:8» मन्त्र:4 | मण्डल:10» अनुवाक:5» मन्त्र:14


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ते द्यावापृथिवी) वे द्युलोक और पृथिवीलोक (मही देवी मातरा हि) महान् दिव्यगुणवाले सबके निर्माण करनेवाले हैं (यज्ञिये जन्मना देवान्-इत्) वे यजनीय-सङ्गमनीय परस्पर सङ्गम की अपेक्षा करनेवाले जन्म देने-उत्पादन करने के कारण सब दिव्य पदार्थों को प्राप्त होते हैं (उभे उभयं बिभ्रतः) वे दोनों स्थावर जङ्गम को भरणपदार्थों से जल अन्न आदियों से धारण करते हैं (पितृभिः-पुरुरेतांसि सिञ्चतः) पितृधर्मों रजवीर्यरूप धर्मों के द्वारा बहुविध रजवीर्यों को सींचते हैं ॥१४॥
भावार्थभाषाः - द्युलोक और पृथिवीलोक स्त्री-पुरुष के समान एक दूसरे को अपेक्षित करते हैं। वे दोनों रजवीर्य शक्तियों के द्वारा प्राणिवनस्पतियों को उत्पन्न करते हैं तथा उन्हें धारण करते हैं और पोषण करते हैं ॥१४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ते द्यावापृथिवी मही देवी मातरा हि) ते द्यावापृथिव्यौ महत्यौ दिव्यगुणवत्यौ सर्वस्य जगतो निर्मात्र्यौ हि स्तः (यज्ञिये जन्मना देवान्-इत्) ते यजनीये सङ्गमनीये परस्परं सङ्गमप्राप्ते जन्मदानेन-उत्पादनेन सर्वान् दिव्यपदार्थान् प्राप्नुतः (उभे-उभयं बिभ्रतः) ते उभे-उभयं स्थावरजङ्गमं भरणपदार्थैर्जलान्नादिभिश्च धारयतः पोषयतः (पितृभिः-पुरुरेतांसि सिञ्चतः) पितृधर्मै रजवीर्यात्मकैर्धर्मै-र्बहुविधानि रजवीर्याणि सिञ्चतः ॥१४॥